अतध्यानम्
शामां पूर्णेन्दुवदनाम् श्वेतांबरधरां शिवाम् |
महामेघ निनादातां निर्वाते दीप वस्त्थिताम ||१||
भुजाष्टकयुक्ता बाणां चापशूल गदा धरम् |
खड्गशंख गदाचक्र वरदाभयधारिणीम् ||२||
श्री गणेशाय नमः अथ तुळजा कवचम् |
श्री देव्युवाच देवेश परमेशान भवतानुग्रहकारक तुळजाकवचम् वक्ष्ये मम प्रीत्या महेश्वर ||
शृणुदेवी महागुह्यं गुहतरं महत् ||
तुळजा कवचम् वक्ष्ये न देयं कस्याचित् ||
अस्य श्री तुरजाकवचमालामंत्रस्य श्री रामचंद्र ऋषी श्री तुरजादेवता |
अनुष्टुप छंदः |
श्री तुळजाप्रसादसिद्धर्थेजपेविनियोगः |
श्री शंकर उवाच |
तुळजा मी शिरः पातु भाले तू परमेश्वरी |
नेत्रे नारायणी रक्षेत्कर्णमूले तू शांकरी ||१||
मुखंपातु महामाया कण्ठम् भुवनसुंदरी |
बाहुद्वयम् विश्वमाता हृदयंशिववल्लभा ||२||
नाभिं कुंडलिनीपातु जानुनी जान्हवी तथा |
पादयो: पापनाशींच पादग्रम सर्वतीर्थवत् ||३||
इंद्रायणी पातु पूर्वे आग्नेय्याम् अग्निदेवता |
दक्षिणे नारसिंहीच नैऋत्याम् खड्ग धारिणी ||४||
पश्चिमेवारुणी पातु वायव्याम् वायुरुपिणी |
उदीच्या पाशहस्ताच ईशान्ये ईश्वरी तथा ||५||
ऊर्ध्वंब्रह्मणिमे रक्षेद् दधास्या वैष्णवी तथा |
एवं दशदिशोरक्षेत् सर्वांगे भुवनेश्वरी ||६||
इदं तु कथितं दिव्यम् सर्वदेहिकम् |
भूतग्रह हरं नित्य ग्रहपिडा तथैवच ||७||
सर्व पापहरेदेवी अंते सायुज्य प्राप्नुयात् |
यत्र तत्र न ववतव्यं यदिछेदात्मनोहितम् ||८||
शठाय भक्तिहीनाय विष्णुद्वेषाय वै तथा |
शिष्याय भक्तीयुक्ताय साधकाय प्रकाशयेत ||९||
दध्यात कवचमियुक्तम् तत्पुण्यं शृणुपार्वती |
अश्वमेध सहस्त्राणि कन्याकोटी शचानिच ||१०||
गवाम् लक्षसहस्राणि तत्पुण्यं लभते नरः |
अष्टम्यां चतुर्दश्यां नवम्यां चैक चेतसा ||११||
सर्व पाप विशुद्धात्मा सर्व लोक सनातनम् |
वनेरणे महाघोरे भयवादे महाहवे ||१२||
जपेत्कवच मा देवि सर्वविघ्नविनाशिनी |
भौमवार महापुण्ये पठत्कवचमाहितः ||१३||
सर्वबाधा प्रशमनम् रहस्य सर्वदेहिनाम् |
किमत्र बहुनोवतेन देवीसायुज्य प्राप्नुयात् ||१४||
इति श्री स्कंद पुराणे सहयाद्री खंडे तुरजामहात्मे ईश्वर पार्वती संवादे श्री तुरजा कवचम् संपूर्णम् |
श्री उमारामेश्वरार्पणस्तु